Thursday, January 30, 2020

श्रीवेङ्कटेश सुप्रभातम्

॥ श्रीः ॥
॥ अथ श्रीवेङ्कटेशसुप्रभातम् ॥

कौसल्या सुप्रजा राम ! पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यम् दैवमाह्निकम् ॥ १ ॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यम् मङ्गलम् कुरु ॥ २ ॥

मातस्समस्तजगताम् मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते ।
श्रीस्वामिनि श्रितजन-प्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३ ॥

तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्न-मुखचन्द्र-मण्डले ।
विधिशङ्करेन्द्र-वनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥ ४ ॥

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्याम्
आकाशसिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुम् प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५ ॥

पञ्चाननाब्जभव-षण्मुखवासवाद्याः
त्रैविक्रमादिचरितम् विबुधाः स्तुवन्ति ।
भाषापतिः पठति वासरशुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६ ॥

ईषत्प्रफुल्ल-सरसीरुह-नारिकेल
-पूगद्रुमादि-सुमनोहर-पालिकानाम् ।
आवाति मन्दमनिलः सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७ ॥

उन्मील्य नेत्रयुगमुत्तम-पञ्जरस्थाः
पात्रावशिष्ट-कदलीफल-पायसानि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८ ॥

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितम् तव नारदोऽपि ।
भाषासमग्रमसकृत्करचारुरम्यम्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९ ॥

भृङ्गावली च मकरन्द-रसानुविद्ध
-झङ्कारगीत-निनदैः सह सेवनाय ।
निर्यात्युपान्त-सरसी-कमलोदरेभ्यः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १० ॥

योषागणेन वरदध्निविमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः ।
रोषात्कलिम् विदधते ककुभश्च कुम्भाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११ ॥

पद्मेशमित्रशतपत्र-गतालिवर्गाः हर्तुम्
श्रियम् कुवलयस्य निजाङ्गलक्ष्म्या ।
भेरीनिनादमिव बिभ्रति तीव्रनादम्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२ ॥

श्रीमन्नभीष्ट-वरदाखिललोक-बन्धो
श्रीश्रीनिवास-जगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तर-दिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३ ॥

श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हर-विरिञ्चि-सनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्र-हतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४ ॥

श्रीशेषशैल-गरुडाचल-वेङ्कटाद्रि
-नारायणाद्रि-वृषभाद्रि-वृषाद्रि-मुख्याम् ।
आख्याम् त्वदीय वसतेरनिशम् वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५ ॥

सेवापराः शिवसुरेश-कृशानुधर्म
-रक्षोम्बुनाथ-पवमान-धनादिनाथाः ।
बद्धाञ्जलि-प्रविलसन्निज-शीर्षदेशाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥  १६ ॥

धाटीषु ते विहगराज-मृगाधिराज
-नागाधिराज-गजराज-हयाधिराजाः ।
स्वस्वाधिकार-महिमाधिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७ ॥

सूर्येन्दुभौम-बुधवाक्पति-काव्यसौरि
-स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।
त्वद्दासदासचरमावधि-दासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥  १८ ॥

त्वत्पाद-धूलिभरित-स्फुरितोत्तमाङ्गाः
स्वर्गापवर्ग-निरपेक्ष-निजान्तरङ्गाः ।
कल्पागमाकलनयाकुलताम् लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९ ॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीम् परमाम् श्रयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २० ॥

श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१ ॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २२ ॥

कन्दर्पदर्प हरसुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुह कुट्मल लोलदृष्टे ।
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २३ ॥

मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २४ ॥

एला लवङ्ग घनसार सुगन्धि तीर्थम्
दिव्यम् वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाऽऽद्य वैदिक शिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ २५ ॥

भास्वानुदेति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवास्सततमर्थित मङ्गलास्ते
धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ २६ ॥

ब्रह्मादयः सुरवरास्समहर्षयस्ते
सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः ।
धामान्तिके तव हि मङ्गलवस्तु हस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २७ ॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसारसागर समुत्तरणैकसेतो ।
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८ ॥

इत्थम् वृषाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः ।
तेषाम् प्रभातसमये स्मृतिरङ्गभाजाम्
प्रज्ञाम् परार्थसुलभाम् परमाम् प्रसूते ॥ २९ ॥

॥ इति श्रीवेङ्कटेश सुप्रभातम् ॥